।। ॐ।। परमात्मने नमः। श्रीपातञ्जलयोगदर्शनम्। अथ समाधिपादः।
Note: In the italicized text in parentheses, sandhis (junctions) have been broken to indicate separate words, and component word(s) in a compound have been hyphenated. The text used here follows the chanting of Yogasūtras by Dr. Jayashree. Only the three invocation verses (repeated at the beginning of each pāda in her CD) are omitted. There may be slight variations compared to the text in some publications and chantings of yogasūtras.
अथ योगानुशासनम्। [1] (अथ योग-अनुशासनम्।)
योगश्चित्तवृत्तिनिरोधः। [2] (योगः चित्त-वृत्ति-निरोधः।)
तदा द्रष्टुस्स्वरूपेऽवस्थानम्। [3] (तदा द्रष्टुः स्वरूपे अवस्थानम्।)
वृत्तिसारूप्यमितरत्र। [4] (वृत्ति-सारूप्यम् इतरत्र।)
वृत्तयः पञ्चतय्यः क्लिष्टाऽक्लिष्टाः। [5] (वृत्तयः पञ्चतय्यः क्लिष्टाः अक्लिष्टाः।)
प्रमाणविपर्ययविकल्पनिद्रास्मृतयः। [6] (प्रमाण-विपर्यय-विकल्प-निद्रा-स्मृतयः।)
प्रत्यक्षानुमानागमाः प्रमाणानि। [7] (प्रत्यक्ष-अनुमान-आगमाः प्रमाणानि।)
विपर्ययो मिथ्याज्ञानमतद्रूपप्रतिष्ठम्। [8] (विपर्ययः मिथ्या-ज्ञानम् अतत्-रूप-प्रतिष्ठम्।)
शब्दज्ञानानुपाती वस्पुशून्यो विकल्पः। [9] (शब्द-ज्ञान-अनुपाती वस्पु-शून्यः विकल्पः।)
अभावप्रत्ययालम्बना वृत्तिर्निद्रा। [10] (अभाव-प्रत्यय-आलम्बना वृत्तिः निद्रा।)
अनुभूतविषयासम्प्रमोषः स्मृतिः। [11] (अनुभूत-विषय-असम्प्रमोषः स्मृतिः।)
अभ्यासवैराग्याभ्यां तन्निरोधः। [12] (अभ्यास-वैराग्याभ्याम् तत्-निरोधः।)
तत्र स्थितौ यत्नोऽभ्यासः। [13] (तत्र स्थितौ यत्नः अभ्यासः।)
स तु दीर्धकालनैरन्तर्यसत्कारासेवितो दृढभूमिः। [14] (सः तु दीर्ध-काल-नैरन्तर्य-सत्कार-आसेवितः दृढ-भूमिः।)
दृष्टानुश्रविकविषयवितृष्णस्य वशीकारसंज्ञा वैराग्यम्। [15] (दृष्ट-अनुश्रविक-विषय-वितृष्णस्य वशीकार-संज्ञा वैराग्यम्।)
तत्परं पुरुषख्यातेर्गुणवैतृष्ण्यम्। [16] (तत्परम् पुरुष-ख्यातेः गुण-वैतृष्ण्यम्।)
वितर्कविचारानन्दास्मितारूपानुगमात्संप्रज्ञातः। [17] (वितर्क-विचार-आनन्द-अस्मिता-रूप-अनुगमात् संप्रज्ञातः|)
विरामप्रत्ययाभ्यासपूर्वः संस्कारशेषोऽन्यः। [18] (विराम-प्रत्यय-अभ्यास-पूर्वः संस्कार-शेषः अन्यः।)
भवप्रत्ययो विदेहप्रकृतिलयानाम्। [19] (भव-प्रत्ययः विदेह-प्रकृति-लयानाम्।)
श्रद्धावीर्यस्मृतिसमाधिप्रज्ञापूर्वक इतरेषाम्। [20] (श्रद्धा-वीर्य-स्मृति-समाधि-प्रज्ञा-पूर्वकः इतरेषाम्।)
तीव्रसंवेगानामासन्नः। [21] (तीव्र-संवेगानाम् आसन्नः।)
मृदुमध्याधिमात्रत्वात्ततोऽपि विशेषः। [22] (मृदु-मध्य-अधिमात्रत्वात् ततः अपि विशेषः।)
ईश्वरप्रणिधानाद्वा। [23] (ईश्वर-प्रणिधानात् वा।)
क्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वरः। [24] (क्लेश-कर्म-विपाक-आशयैः अपरामृष्टः पुरुष-विशेषः ईश्वरः।)
तत्र निरतिशयं सर्वज्ञबीजम्। [25] (तत्र निरतिशयम् सर्वज्ञ-बीजम्।)
स एष पूर्वेषामपि गुरुः कालेनानवच्छेदात्। [26] (स एष पूर्वेषाम् अपि गुरुः कालेन अनवच्छेदात्।)
तस्य वाचकः प्रणवः। [27] (तस्य वाचकः प्रणवः।)
तज्जपस्तदर्थभावनम्। [28] (तत्-जपः तत्-अर्थ-भावनम्।)
ततः प्रत्यक्चेतनाधिगमोऽप्यन्तरायाभावश्च। [29] (ततः प्रत्यक्-चेतन-अधिगमः अपि अन्तराय-अभावः च।)
व्याधिस्त्यानसंश्यप्रमादालस्याविरतिभ्रान्तिदर्शनालब्धभूमिकत्वानवस्थितत्वानि चित्तविक्षेपास्तेऽन्तरायाः। [30] (व्याधि-स्त्यान-संश्य-प्रमाद-आलस्य-अविरति-भ्रान्तिदर्शन-अलब्धभूमिकत्व-अनवस्थितत्वानि चित्तविक्षेपाः ते अन्तरायाः।)
दुःखदौर्मनस्याङ्गमेजयत्वश्वासप्रश्वासा विक्षेपसहभुवः। [31] (दुःख-दौर्मनस्य-अङ्गमेजयत्व-श्वास-प्रश्वासाः विक्षेप-सह-भुवः।)
तत्प्रतिषेधार्थमेकत्वाभ्यासः। [32] (तत्-प्रतिषेध-अर्थम् एकत्व-अभ्यासः।)
मैत्रीकरुणामुदितोपेक्षाणां सुखदुःखपुण्यापुण्यविषयाणां भावनातश्चित्तप्रसादनम्। [33] (मैत्री-करुणा-मुदित-उपेक्षाणा्म सुख-दुःख-पुण्य-अपुण्य-विषयाणाम् भावनातः चित्त-प्रसादनम् ।)
प्रच्छर्दनविधारणाभ्यां वा प्राणस्य। [34] (प्रच्छर्दन-विधारणाभ्याम् वा प्राणस्य।)
विषयवती वा प्रवृत्तिरुत्पन्ना मनसः स्थितिनिबन्धिनी। [35] (विषयवती वा प्रवृत्तिरः उत्पन्ना मनसः स्थिति-निबन्धिनी।)
विशोका वा ज्योतिष्मती। [36] (विशोका वा ज्योतिष्मती।)
वीतरागविषयं वा चित्तम्। [37] (वीत-राग-विषयम् वा चित्तम्।)
स्वप्ननिद्राज्ञानालम्बनं वा। [38] (स्वप्न-निद्रा-अज्ञान-आलम्बनम् वा।)
यथाभिमतध्यानाद्वा। [39] (यथा-अभिमत-ध्यानात् वा।)
परमाणुपरमरहत्वान्तोऽस्य वशीकारः। [40] (परम-अणु-परम-महत्व-अन्तः अस्य वशीकारः।)
क्षीणवृत्तेरभिजातस्येव मणेर्ग्रहीतृग्रहणग्राह्येषु तत्स्थतदञ्जनता समापत्तिः। [41] (क्षीण-वृत्तेः अभिजातस्य इव मणेः ग्रहीतृ-ग्रहण-ग्राह्येषु तत्-स्थ-तत्-अञ्जनता समापत्तिः।)
तत्र शब्दार्थज्ञानविकल्पैः सङ्कीर्णा सवितर्का समापत्तिः। [42] (तत्र शब्द-अर्थ-ज्ञान-विकल्पैः सङ्कीर्णा सवितर्का समापत्तिः।)
स्मृतिपरिशुद्धौ स्वरूपशुन्येवार्थमात्रनिर्भासा निर्वितर्का। [43] (स्मृति-परिशुद्धौ स्वरूप-शुन्यः इव अर्थ-मात्र-निर्भासा निर्वितर्का।)
एतयैव सविचारा निर्विचारा च सूक्ष्मविषया व्याख्याता। [44] (एतया एव सविचारा निर्विचारा च सूक्ष्म-विषया व्याख्याता।)
सूक्ष्मविषयत्वञ्चालिङ्गपर्यवस्नम् । [45] (सूक्ष्म-विषयत्वम् च अलिङ्ग-पर्यवसानम्।)
ता एव सबीजः समाधिः। [46] (ता एव सबीजः समाधिः।)
निर्विचारवैशारद्येऽध्यात्मप्रसादः। [47] (निर्विचार-वैशारद्ये अध्यात्मप्रसादः।)
ऋतंभरा तत्र प्रज्ञा। [48] (ऋतंभरा तत्र प्रज्ञा।)
श्रुतानुमानप्रज्ञाभ्यामन्यविषया विशेषार्थत्वात्। [49] (श्रुत-अनुमान-प्रज्ञाभ्याम् अन्यविषया विशेष-अर्थत्वात्।)
तज्जः संस्कारोऽन्यसंस्कारप्रतिबन्धी। [50] (तत्-जः संस्कारः अन्य-संस्कार-प्रतिबन्धी।)
तस्यापि निरोधे सर्वनिरोधान्निर्बीजः समाधिः। [51] (तस्य अपि निरोधे सर्व-निरोधात् निर्बीजः समाधिः।)
इति श्रीपाञ्जलयोगदर्शने समाधिपादो नाम प्रथमः पादः।
।। ॐ।। परमात्मने नमः। श्रीपातञ्जलयोगदर्शनम्। अथ साधनपादः।
तपस्स्वाध्यायेश्वरप्रणिधानानि क्रियायोगः। [1] (तपस्-स्व-अध्याय-ईश्वर-प्रणिधानानि क्रिया-योगः।)
समाधिभावनार्थः क्लेशतनूकरणार्थश्च। [2] (समाधि-भावना-अर्थः क्लेश-तनूकरण-अर्थः च।)
अविद्याऽस्मितारागद्वेषाभिनिवेशाः क्लेशाः। [3] (अविद्या-अस्मिता-राग-द्वेष-अभिनिवेशाः क्लेशाः।)
अविद्या क्षेत्रमुत्तरेषां प्रसुप्ततनुविच्छिन्नोदाराणाम्। [4] (अविद्या क्षेत्रम् उत्तरेषां प्रसुप्त-तनु-विच्छिन्न-उदाराणाम्।)
अनित्याशुचिदुःखानात्मसु नित्यशुचिसुखात्मख्यातिरविद्या। [5] (अनित्य-अशुचि-दुःख-अनात्मसु नित्य-शुचि-सुख-आत्मख्यातिः अविद्या।)
दृग्दर्शनशक्त्योरेकात्मतेवास्मिता। [6] (दृक्-दर्शन-शक्त्योः एकात्मता इव अस्मिता।)
सुखानुशयी रागः। [7] (सुख-अनुशयीरागः।)
दुःखानुशयीद्वेषः। [8] (दुःख-अनुशयीद्वेषः।)
स्वरसवाही विदुषोऽपि तथा रूढोऽभिनिवेशः। [9] (स्व-रस-वाही विदुषः अपि तथा रूढः अभिनिवेशः।)
ते प्रतिप्रसवहेयाः सूक्ष्माः। [10] (ते प्रति-प्रसव-हेयाः सूक्ष्माः।)
ध्यानहेयास्तद्वृत्तयः। [11] (ध्यान-हेयाः तत्-वृत्तयः।)
क्लेशमूलः कर्माशयो दृष्टादृष्टजन्मवेदनीयः। [12] (क्लेश-मूलः कर्म-आशयः दृष्ट-अदृष्ट-जन्म-वेदनीयः।)
सति मूले तद्विपाकः जात्यायुर्भोगाः। [13] (सति मूले तत्-विपाकः जाति-आयुस्-भोगाः।)
ते ह्लादपरितापफलाः पुण्यापुण्यहेतुत्वात्। [14] (ते ह्लाद-परिताप-फलाः पुण्य-अपुण्य-हेतुत्वात्।)
परिणामतापसंस्कारदुःखैर्गुणवृत्तिविरोधाच्च दुःखमेव सर्वं विवेकिनः। [15] (परिणाम-ताप-संस्कार-दुःखैः गुण-वृत्ति-विरोधात्च दुःखम् एव सर्वम् विवेकिनः।)
हेयं दःखमनागतम्। [16] (हेयम् दःखम् अनागतम्।)
द्रष्टृदृश्ययोः संयोगो हेयहेतुः। [17] (द्रष्टृ-दृश्ययोः संयोगः हेय-हेतुः।)
प्रकाशक्रियास्थितिशीलं भूतेन्द्रियात्मकं भोगापवर्गार्थं दृश्यम्। [18] (प्रकाश-क्रिया-स्थिति-शीलम् भूत-इन्द्रिय-आत्मकम् भोग-अपवर्ग-अर्थम् दृश्यम्।)
विशेषाविशेषलिङ्गमात्रालिङ्गानि गुणपर्वाणि। [19] (विशेष-अविशेष-लिङ्ग-मात्र-अलिङ्गानि गुण-पर्वाणि।)
द्रष्टा दृशिमात्रश्शुद्धोऽपि प्रत्ययानुपश्यः। [20] (द्रष्टा दृशि-मात्रः शुद्धः अपि प्रत्यय-अनुपश्यः।)
तदर्थ एव दृश्यस्यात्मा। [21] (तत्-अर्थः एव दृश्यस्य आत्मा।)
कृतार्थं प्रति नष्टमप्यनष्टं तदन्यसाधारणत्वात्। [22] (कृत-अर्थम् प्रति नष्टम् अपि अनष्टम् तत् अन्य-साधारणत्वात्।)
स्वस्वामिशक्त्योः स्वरूपोपलब्धिहेतुस्संयोगः। [23] (स्व-स्वामि-शक्त्योः स्वरूप-उपलब्धि-हेतुः संयोगः।)
तस्य हेतुरविद्या। [24] (तस्य हेतुः अविद्या।)
तदभावात्संयोगाभावो हानं तद्दृशेः कैवल्यम्। [25] (तत्-अभावात् संयोग-अभावः हानम् तद्दृशेः कैवल्यम्।)
विवेकख्यातिरविप्लवा हानोपायः। [26] (विवेक-ख्यातिः अविप्लवाः हान-उपायः।)
तस्य सप्तधा प्रान्तभूमिः प्रज्ञा। [27] (तस्य सप्तधा प्रान्तभूमिः प्रज्ञा।)
योगाङ्गानुष्ठानादशुद्धिक्षये ज्ञानदीप्तिराविवेकख्यातेः। [28] (योग-अङ्ग-अनुष्ठानात् अशुद्धि-क्षये ज्ञान-दीप्तिः आविवेकख्यातेः।)
यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधयोऽष्टावङ्गानि। [29] (यम-नियम-आसन-प्राणायाम-प्रत्याहा-धारणा-ध्यान-समाधयः अष्टौ अङ्गानि।)
अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहा यमाः। [30] (अहिंसा-सत्य-अस्तेय-ब्रह्मचर्य-अपरिग्रहाः यमाः।)
जातिदेशकालसमयानवच्छिन्नाः सार्वभौमा महाव्रतम्। [31] (जाति-देश-काल-समय-अनवच्छिन्नाः सार्व-भौमाः महाव्रतम्।)
शौचसन्तोषतपस्स्वाध्यायेश्वरप्रणिधानानि नियमाः। [32] (शौच-सन्तोष-तपस्-सव-अध्याय-ईश्वर-प्रणिधानानि नियमाः।)
वितर्कबाधने प्रतिपक्षभानवम्। [33] (वितर्क-बाधने प्रति-पक्ष-भानवम्।)
वितर्का हिंसादयः कृतकारितानुमोदिता लोभक्रोधमोहपूर्वका मृधुमध्याधिमात्रा दुःखाज्ञानानन्तफला इति प्रतिपक्षभावनम्। [34] (वितर्काः हिंस-आदयः कृत-कारिता-अनुमोदिताः लोभ-क्रोध-मोह-पूर्वकाः मृधु-मध्य-अधिमात्राः दुःख-अज्ञान-अनन्त-फलाः इति प्रति-पक्ष-भावनम्।)
अहिंसाप्रतिष्ठायां तत्सन्निधौ वैरत्यागः। [35] (अहिंसा-प्रतिष्ठाया्म तत्-सन्निधौ वैर-त्यागः।)
सत्यप्रतिष्ठायां क्रियाफलाश्रयत्वम्। [36] (सत्य-प्रतिष्ठायाम् क्रिया-फल-आश्रयत्वम्।)
अस्तेयप्रतिष्ठायां सर्वरत्नोपस्थानम्। [37] (अस्तेय-प्रतिष्ठायाम् सर्व-रत्न-उपस्थानम्।)
ब्रह्मचर्यप्रिष्ठायां वीर्यलाभः। [38] (ब्रह्मचर्य-प्रिष्ठायाम् वीर्य-लाभः।)
अपरिग्रहस्थैर्ये जन्मकथन्तासंबोधः। [39] (अ-परिग्रह-स्थैर्ये जन्म-कथन्ता-संबोधः।)
शौचात्स्वाङ्गजुगुप्सा परैरसंसर्गः। [40] (शौचात् स्व-अङ्ग-जुगुप्सा परैः अ-संसर्गः।)
सत्त्वशुद्धिसौमनस्यैकाग्र्येन्द्रियजयात्मदर्शनयोग्यत्वानि च। [41] (सत्त्व-शुद्धि-सौमनस्य-एकाग्र्य-इन्द्रिय-जय-आत्म-दर्शन-योग्यत्वानि च।)
सन्तोषादनुत्तमः सुखलाभः। [42] (सन्तोषात् अनुत्तमः सुख-लाभः।)
कायेन्द्रियसिद्धिरशुद्धिक्षयात्तपसः। [43] (काय-इन्द्रिय-सिद्धिः अशुद्धि-क्षयात् तपसः।)
स्वाध्यायादिष्टदेतासंप्रयोगः। [44] (स्व-अध्यायात् इष्ट-देता-संप्रयोगः।)
समाधिसिद्धिरीश्वरप्रणिधानात्। [45] (समाधि-सिद्धिः ईश्वर-प्रणिधानात्।)
स्थिरसुखमासनम्। [46] (स्थिर-सुखम् आसनम्।)
प्रयत्नशैथिल्यानन्तसमात्तिभ्याम्। [47] (प्रयत्न-शैथिल्य-आनन्त-समापत्तिभ्याम्।)
ततो द्वन्द्वानभिघातः। [48] (ततः द्वन्द्व-अनभिघातः।)
तस्मिन्सति श्वासप्रश्वासयोर्गतिविच्छेदः प्राणायामः। [49] (तस्मिन् सति श्वास-प्रश्वासयोः गति-विच्छेदः प्राणायामः।)
बाह्याभ्यन्तरस्तम्भवृत्तिर्देशकालसंख्याभिः परिदृष्टो दीर्घसूक्ष्मः। [50] (बाह्य-अभ्यन्तर-स्तम्भ-वृत्तिः देश-काल-संख्याभिः परि-दृष्टः दीर्घ-सूक्ष्मः।)
बाह्याभ्यन्तरविषयापेक्षी चतुर्थः। [51] (बाह्य-अभ्यन्तर-विषय-अपेक्षी चतुर्थः।)
ततः क्षीयते प्रकाशावरणम्। [52] (ततः क्षीयते प्रकाश-आवरणम्।)
धारणासु च योग्यता मनसः। [53] (धारणासु च योग्यता मनसः।)
स्वविषयासंप्रयोगे चित्तस्वरूपानुकार इवेन्द्रियाणां प्रत्याहारः। [54] (स्व-विषय-असंप्रयोगे चित्त-स्वरूप-अनुकारः इव इन्द्रियाणाम् प्रत्याहारः।)
ततः परमा वश्यतेन्द्रियाणाम्। (55) (ततः परमा वश्यता इन्द्रियाणाम्।)
इति श्रीपातञ्जलयोगदर्शने साधनपादो नाम द्वितीयः पादः।
।। ॐ।। परमात्मने नमः। श्रीपातञ्जलयोगदर्शनम्। अथ विभूतिपादः।
देशबन्धस्चित्तस्य धारणा। [1] (देश-बन्धः चित्तस्य धारणा।)
तत्र प्रत्ययैकतानता ध्यानम्। [2] (तत्र प्रत्यय-एकतानता ध्यानम्।)
तदेवार्थमात्रनिर्भासं स्वरूपशून्यमिव समाधिः। [3] (तत् एव अर्थ-मात्र-निर्भासम् स्व-रूप-शून्यम् इव समाधिः।)
त्रयमेकत्र संयमः। [4] (त्रयम् एकत्र संयमः।)
तज्जयात्प्रज्ञालोकः। [5] (तजत्-जयात् प्रज्ञा-आलोकः।)
तस्य भूमिषु विनियोगः। [6] (तस्य भूमिषु विनियोगः।)
त्रयमन्तरङ्गं पूर्वेभ्यः। [7] (त्रयम् अन्तरङ्गं पूर्वेभ्यः।)
तदपि बहिरङ्गं निर्बीजस्य। [8] (तत् अपि बहिरङ्गं निर्बीजस्य।)
व्युत्थाननिरोधसंस्कारयोरभिभवप्रादुर्भावौ निरोधक्षणचित्तान्वयो निरोधपरिणामः। [9] (व्युत्थान-निरोध-संस्कारयोः अभिभव-प्रादुर्भावौ निरोध-क्षण-चित्त-अन्वयः निरोध-परिणामः।)
तस्य प्रशान्तवाहिता संस्कारात्। [10] (तस्य प्रशान्त-वाहिता संस्कारात्।)
सर्वार्थतैकाग्रतयोः क्षयोदयौ चित्तस्य समाधिपरिणामः। [11] (सर्वार्थता-एकाग्रतयोः क्षय-उदयौ चित्तस्य समाधि-परिणामः।)
तत्र पुनः शान्तोदितौ तुल्यप्रत्ययौ चित्तस्यैकाग्रतापरिणामः। [12] (तत्र पुनः शान्त-उदितौ तुल्य-प्रत्ययौ चित्तस्य एकाग्रता-परिणामः।)
एतेन भूतेन्द्रियेषु धर्मलक्षणावस्थापरिणामा व्याख्याताः। [13] (एतोन भूत-इन्द्रियेषु धर्म-लक्षण-अवस्था-परिणामाः व्याख्याताः।)
शान्तोदिताव्यपदेश्यधर्मानुपाती धर्मी। [14] (शान्त-उदित-अव्यपदेश्य-धर्म-अनुपाती धर्मी।)
क्रमान्यत्वं परिणामान्यत्वे हेतुः। [15] (क्रम-अन्यत्वम् परिणाम-अन्यत्वे हेतुः।)
परिणामत्रयसंयमादतीतानागतज्ञानम्। [16] (परिणाम-त्रय-संयमात् अतीत-अनागत-ज्ञानम्।)
शब्दार्थप्रत्ययानामितरेतराध्यासात्सङ्करस्तत्प्रविभागसंयमात्सर्वभूतरुतज्ञानम्। [17] (शब्द-अर्थ-प्रत्ययानाम् इतर-इतर-अध्यासात् सङ्करः तत्-प्रविभाग-संयमात् सर्व-भूत-रुत-ज्ञानम्।)
संस्कारसाक्षात्करणात् पूर्वजातिज्ञानम्। [18] (संस्कार-साक्षात्करणात् पूर्व-जाति-ज्ञानम्।)
प्रत्ययस्य परचित्तज्ञानम्। [19] (प्रत्ययस्य पर-चित्त-ज्ञानम्।)
न च तत्सालम्बनं तस्याविषयीभूतत्वात्। [20] (न च तत् स-आलम्बलनं तस्य अविषयीभूतत्वात्।)
कायरूपसंयमात्तद्ग्राह्यशक्तिस्तम्भे चक्षुष्प्रकाशासंप्रयोगेऽन्तर्धानम्। [21] (काय-रूप-संयमात् तद्ग्राह्य-शक्तिः तम्भे चक्षुस्-प्रकाश-असंप्रयोगे अन्तर्धानम्।)
सोपक्रमं निरुपक्रमञ्च कर्म तत्संयमात् परान्तज्ञानमरिष्टेभ्यो वा। [22] (स-उपक्रमं निर्-उपक्रमम् च कर्म तत् संयमात् अपर-अन्तज्ञानम् अरिष्टेभ्यो वा।)
मैत्र्यादिषु बलानि। [23] (मैत्र्य-आदिषु बलानि।)
बलेषु हस्तिबलादीनि। [24] (बलेषु हस्ति-बल-आदीनि।)
प्रवृत्त्यालोकन्यासात् सूक्ष्मव्यवहितविप्रकृष्टज्ञानम्। [25] (प्रवृत्ति-आलोकन्यासात् सूक्ष्म-व्यवहित-विप्रकृष्ट-ज्ञानम्।)
भुवनज्ञानं सूर्ये संयमात्। [26] (भुवन-ज्ञानं सूर्ये संयमात्।)
चन्द्रे ताराव्यूहज्ञानम्। [27] (चन्द्रे तारा-व्यूह-ज्ञानम्।)
ध्रुवे तद्गतिज्ञानम्। [28] (ध्रुवे तत्-गति-ज्ञानम्।)
नाभिचक्रे कायव्यूहज्ञानम्। [29] (नाभि-चक्रे काय-व्यूह-ज्ञानम्।)
कण्ठकूपे क्षुत्पिपासानिवृत्तिः। [30] (कण्ठ-कूपे क्षुत्-पिपासा-निवृत्तिः।)
कूर्मनाड्यां स्थैर्यम्। [31] (कूर्म-नाड्याम् स्थैर्यम्।)
मूर्धज्योतिषि सिद्धदर्शनम्। [32] (मूर्ध-ज्योतिषि सिद्ध-दर्शनम्।)
प्रातिभाद्वा सर्वम्। [33] (प्रातिभात् वा सर्वम्।)
हृदये चित्तसंवित्। [34] (हृदये चित्त-संवित्।)
सत्त्वपुरुषयोरत्यन्तासङ्कीर्णयोः प्रत्ययाविशेषो भोगः परार्थात्स्वार्थसंयमात्पुरुषज्ञानम्। [35] (सत्त्व-पुरुषयोः अत्यन्ता-सङ्कीर्णयोः प्रत्यय-अविशेषो भोगः परार्थात्-समवार्थ-संयमात् पुरुष-ज्ञानम्।)
ततः प्रातिभश्रावणवेदनादर्शास्वादवार्ता जायन्ते। [36] (ततः प्रातिभ-श्रावण-वेदनात् आदर्श-आस्वाद-वार्ता जायन्ते।)
ते समाधावुपसर्गा व्युत्थाने सिद्धयः। [37] (ते समाधौ उपसर्गाः व्युत्थाने सिद्धयः।)
बन्धकारणशैथिल्यात्प्रचारसंवेदनाच्च चित्तस्य परशरीरावेशः। [38] (बन्ध-कारण-शैथिल्यात् प्रचार-संवेदनात् च चित्तस्य पर-शरीर-आवेशः।)
उदानजयाज्जलपङ्ककण्टकादिष्वसङ्ग उत्क्रान्तिश्च। [39] (उदान-जयाजत् जल-पङ्क-कण्टक-आदिषु असङ्गः उत्क्रान्तिः च।)
समानजयाज्ज्वलनम्। [40] (समान-जयात् ज्वलनम्।)
श्रोत्राकाशयोः सम्बन्धसंयमाद्दिव्यं श्रोत्रम्। [41] (श्रोत्र-आकाशयोः सम्बन्ध-संयमात् दिव्यम् श्रोत्रम्।)
कायाकशयोस्सम्बन्धसंयमाल्लघुतूलसमापत्तेश्चाकाशगमनम्। [42] (काय-आकशयोः सम्बन्ध-संयमात् लघु-तूल-समापत्तेः च आकाश-गमनम्।)
बहिरकल्पिता वृत्तिर्महाविदेहा ततः प्रकाशावरणक्षयः। [43] (बहिः अकल्पिता वृत्तिः महाविदेहा ततः प्रकाश-आवरण-क्षयः।)
स्थूलस्वरूपसूक्ष्मान्वयार्थवत्त्वसंयमाद्भूतजयः। [44] (स्थूल-स्वरूप-सूक्ष्म-अन्वय-अर्थवत्त्व-संयमात् भूत-जयः।)
ततोऽणिमादिप्रादुर्भावः कायसम्पत्तद्धर्मानभिघातश्च। [45] (ततः अणिमा-आदि-प्रादुर्भावः काय-सम्पत् तत्-धर्म-अनभिघातः च।)
रूपलावण्यबलवज्रसंहननत्वानि कायसम्पत्। [46] (रूप-लावण्य-बल-वज्र-संहननत्वानि काय-सम्पत्।)
ग्रहणस्वरूपास्मितान्वयार्थवत्त्वसंयमादिन्द्रियजयः। [47] (ग्रहण-स्वरूप-अस्मिता-अन्वय-अर्थवत्त्व-संयमात् इन्द्रिय-जयः।)
ततो मनोजवित्वं विकरणभावः प्रधानजयश्च। [48] (ततः मनस्-जवित्वम् विकरण-भावः प्रधान-जयः च।)
सत्वपुरुषान्यथाख्यातिमात्रस्य सर्वभावाधिष्ठातृत्त्वं सर्ञ्चवज्ञातृत्वञ्च। [49] (सत्व-पुरुष-अन्यथा-ख्याति-मात्रस्य सर्व-भाव-अधिष्ठातृत्वम् सर्वज्ञातृत्वम् च।)
तद्वैराग्यादपि दोषबीजक्षये कैवल्यम्। [50] (तत् वैराग्यात् अपि दोष-बीज-क्षये कैवल्यम्।)
स्थान्युपनिमन्त्रणे सङ्गस्मयाकरणं पुनररिष्टप्रसङ्गात्। [51] (स्थानि-उपनिमन्त्रणे सङ्ग-स्मय-अकरणम् पुनः अरिष्ट-प्रसङ्गात्।)
क्षणतत्क्रमयोः संयमाद्विवेकजं ज्ञानम्। [52] (क्षण-तत्-क्रमयोः संयमात्-विवेकजम् ज्ञानम्।)
जातिलक्षणदेशेरन्यताऽनवच्छेदात्तुल्ययोस्ततः प्रतिपत्तिः। [53] (जाति-लक्षण-देशेः अन्यता-अनवच्छेदात् तुल्ययोः ततः प्रतिपत्तिः।)
तारकं सर्वविषयं सर्वथाविषयमक्रमं चेति विवेकजं ज्ञानम्। [54] (तारकम् सर्वविषयम् सर्वथा-विषयं-अक्रमम् च इति विवेक-जम् ज्ञानम्।)
सत्त्वपुरुषयोः शुद्धिसाम्ये कैवल्यमिति। [55] (सत्त्व-पुरुषयोः शुद्धि-साम्ये कैवल्यम् इति।
इति श्रीपातञ्जलयोगदर्शने विभूतिपादो नाम तृतीयः पादः।
।। ॐ।। परमात्मने नमः। श्रीपातञ्जलयोगदर्शनम्। अथ कैवल्यपादः।
जन्मौषधिमन्त्रतपस्समाधिजास्सिद्धयः। [1] (जन्म-ओषधि-मन्त्र-तपस्-समाधि-जाः सिद्धयः।)
जात्यन्तरपरिणामः प्रकृत्यापूरात्। [2] (जाति-अन्तर-परिणामः प्रकृति-आपूरात्।)
निमित्तमप्रयोजकं प्रकृतीनां वरणभेदस्तु ततः क्षेत्रिकवत्। [3] (निमित्तम् अप्रयोजकम् प्रकृतीनाम् वरण-भेदः तु ततः क्षेत्रिकवत्।)
निर्माणचित्तान्यस्मितामात्रात्। [4] (निर्माण-चित्तानि अस्मितामात्रात्।)
प्रवृत्तिभेदे प्रयोजकञ्चित्तमेकमनेकेषाम्। [5] (प्रवृत्ति-भेदे प्रयोजकम् चित्तम् एकम् अनेकेषाम्।)
तत्र ध्यानजमनाशयम्। [6] (तत्र ध्यानजम् अनाशयम्।)
कर्माशुक्लाकृष्णं योगिनस्त्रिधमितरेषाम्। [7] (कर्म-अशुक्ल-अकृष्णम् योगिनः त्रिधम् इतरेषाम्।)
ततस्तद्विपाकानुगुणानामेवाभिव्यक्तिर्वासनानाम्। [8] (ततः तद्विपाक-अनुगुणानाम् एव अभिव्यक्तिः वासनानाम्।)
जातिदेशकालव्यवहितानामप्यानन्तर्यं स्मृतिसंस्कारयोरेकरूपत्वात्। [9] (जाति-देश-काल-व्यवहितानाम् आपि आनन्तर्यम् स्मृति-संस्कारयोः एक-रूपत्वात्।)
तासामनादित्वं चाशिषो नित्यत्वात्। [10] (तासाम् अनादित्वम् च आशिषः नित्यत्वात्।)
हेतुफलाश्रयालम्बनैः संगृहीतत्वादेषामभावे तदभावः। [11] (हेतु-फल-आश्रय-आलम्बनैः संगृहीतत्वात् एषाम् अभावे तत्-अभावः।)
अतीतानागतं स्वरूपतोऽस्त्यध्वभेदाद्धर्माणाम्। [12] (अतीत-अनागतम् स्वरूपतः अस्ति अध्वभेदात् धर्माणाम्।)
ते व्यक्तसूक्ष्मा गुणात्मानः। [13] (ते व्यक्त-सूक्ष्माः गुण-आत्मानः।)
परिणामैकत्वाद्वस्तुतत्त्वम्। [14] (परिणाम एकत्वात् वस्तु-तत्त्वम्।)
वस्तुसाम्ये चित्तभेदात्तयोर्विभक्तः पन्थाः। [15] (वस्तु-साम्ये चित्त-भेदात् तयोः विभक्तः पन्थाः।)
न चैकचित्ततन्त्रं वस्तु तदप्रमाणकं तदा किं स्यात्। [16] (न च एक-चित्त-तन्त्रम् वस्तु तत् अप्रमाणकम् तदा किम् स्यात्।)
तदुपरागापेक्षितत्वाच्चित्तस्य वस्तु ज्ञाताज्ञातम्। [17] (तत्-उपराग-अपेक्षितत्वात् चित्तस्य वस्तु ज्ञात-अज्ञातम्।)
सदा ज्ञाताश्चित्तवृत्तयस्तत्प्रभोः पुरुषस्यापरिणामित्वात्। [18] (सदा ज्ञाताः चित्तवृत्तयः तत्प्रभोः पुरुषस्य अपरिणामित्वात्।)
न तत्स्वाभावं दृश्यत्वात्। [19] (न तत्-स्वाभावम् दृश्यत्वात्।)
एकसमये चोभयानवधारणम्। [20] (एक-समये च उभय-अनवधारणम्।)
चित्तान्तरदृश्ये बुद्धिबवुद्धेरतिप्रसङ्गः स्मृतिसङ्करश्च। [21] (चित्त-अन्तर-दृश्ये बुद्धिबवुद्धेः अतिप्रसङ्गः स्मृति-सङ्करः च।)
चित्तेरतिसङ्क्रमायास्तदाकारापत्तौ स्वबुद्धिसंवेदनम्। [22] (चित्तेः अतिसङ्क्रमायाः तत्-आकार-आपत्तौ स्व-बुद्धि-संवेदनम्।)
द्रष्टृदृश्योपरक्तं चित्तं सर्वार्थम्। [23] (द्रष्टृ-दृश्य-उपरक्तम् चित्तम् सर्वार्थम्।)
तदसङ्ख्येयवासनाभिश्चित्रमपि परार्थं संहत्यकारित्वात्। [24] (तते असङ्ख्येय-वासनाभिः चित्रम् अपि परार्थम् संहति-अकारित्वात्।)
विशेषदर्शिन आत्मभावभावनाविनिवृत्तिः। [25] (विशेष-दर्शिनः आत्म-भाव-भावना-विनिवृत्तिः।)
तदा विवेकनिम्नं कैवल्यप्राग्भारं चित्तम्। [26] (तदा विवेक-निम्नम् कैवल्य-प्राग्भारम् चित्तम्।)
तच्छिद्रेषु प्रत्ययान्तराणि संस्कारेभ्यः। [27] (तत-छिद्रेषु प्रत्यय-अन्तराणि संस्कारेभ्यः।)
हानमेषां क्लेशवदुक्तम्। [28] (हानम् एषाम् क्लेशवत्-उक्तम्।)
प्रसङ्ख्यानेऽप्यकुसीदस्य सर्वथा विवेकख्यातेर्धर्ममेघस्समाधिः। [29] (प्रसङ्ख्याने अपि अकुसीदस्य सर्वथा विवेक-ख्यातेः धर्ममेघः समाधिः।)
ततः क्लेशकर्मनिवृत्तिः। [30] (ततः क्लेश-कर्म-निवृत्तिः।)
तदा सर्वावरणमलापेतस्य ज्ञानस्यानन्त्याज्ज्ञेयमल्पम्। [31] (तदा सर्व-आवरण-मल-अपेतस्य ज्ञानस्य-आनन्त्यात् ज्ञेयम् अल्पम्।)
ततः कृतार्थानां परिणामक्रमसमाप्तिर्गुणानाम्। [32] (ततः कृतार्थानाम् परिणाम-क्रम-समाप्तिः गुणानाम्।)
क्षणप्रतियोगी परिणामापरान्तनिर्ग्राह्यः क्रमः। [33] (क्षण-प्रतियोगी परिणाम-अपरान्त-निर्ग्राह्यः क्रमः।)
पुरुषार्थ शून्यानां गुणानां प्रतिप्रसवः कैवल्यं स्वरूपप्रतिष्ठा वा चितिशक्तिरिति। [34] (पुरुषार्थ शून्यानाम् गुणानाम् प्रतिप्रसवः कैवल्यम् स्वरूप-प्रतिष्ठा वा चिति-शक्तिः इति।)
इति श्रीपातञ्जलयोगदर्शने कैवल्यपादो नाम चतुर्थः पादः।
इति श्रीपातञ्जलयोगसूत्राणि।